________________
द्वन्द्वसमासप्रकरणम
२९९
तोयोत्सर्गश्च स्तनितं च तोयोत्सगैस्तनिते । ताभ्यां मुखरः । अल्पान्तरम् इति पूर्वनिपातो न । ' लक्षणहेत्वो ।' (सू. 3103) इत्यत्र सूत्रे विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनात् ।
अस्मिन्नेव ग्रन्थे लो० 690. नागेन्द्ररथाश्वेन मिश्रैः । बहुब्वनियमाद्धस्तिनां प्राधान्याच्च बह्वचोऽपि नागेन्द्रस्य पूर्वनिपातः ।
अस्मिन्नेव ग्रन्थे श्लो० 1024. धराशैलसमुद्राणाम् |
अस्मिन्नेव ग्रन्थे को 60. गुरुकाव्यौ । ' लब्बक्षरं पूर्वम्' (बा. 1418सू. 905 ) इति पूर्वनिपातः ।
पूर्ववत् ।
भट्टिकाव्ये - XV. 115.
अङ्गदेनाहसातां तौ युध्यकम्पनकम्पनौ ।
अभ्यादद्वालिनः पुत्रं प्रजोऽपि समत्सरः || 1027
अकम्पनःश्च कम्पनश्च अकम्पनकम्पनौ । ज्येष्ठत्वात्पूर्वनिपातः ।
अस्मिन्नेव ग्रन्थे श्लो० 1018. लक्ष्मणश्च शत्रुनश्च लक्ष्मणशत्रुघ्नौ ।
चम्पूभारते -- I. 55.
झुत्पीडया स्तनरसे कलहं शिशूनां
कुन्ती तदा शमयितुं कुचकुम्भयुग्मे !
एकं धनञ्जययुधिष्ठिरयोश्च भाग
मेकं समीरणसुतस्य च संविभेजे || 1028 |
धनञ्जययुधिष्ठिरयोरिति ज्येष्ठस्य पूर्वनिपातो न ।
९०६ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । ( २.४.२ )
एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकन् । रथिकाधारोहम् ।
अस्मिन्नेव ग्रन्थे लो० 827. वाक्त्वचेन । वाक्च त्वक्चेति प्राण्यङ्गत्वादेकवत् । ' द्वन्द्वात् ' ( सू. 930 ) इति टच /