________________
बहुव्रीहिसमासप्रकरणम्
२६७ प्रमदाश्च यत्र खलु राजयक्ष्मणः
परतो निशाकरमनोरमैर्मुखैः ।। 927 ।। त्रिणेतः । संज्ञायां णत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 635. दुर्दुमो हन्यतेऽनेनेति द्रुघणः कुठारादिः । करणार्थेऽप् । अनेन णत्वम् । अरीहणादिपाठाद्वा ।
अस्मिन्नेव ग्रन्थे श्लो० 878. रामस्यायनं रामायणम् । अनेन णत्वम् । माघे-XIX. 61.
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणताः सहसामुचन् ।। 928 ।। त्रिषु स्थानेषु मध्ये कोटयोश्च नतास्त्रिणताः शाङ्गाणि । अनेन णत्वम् । माघे-~~XIII. 19.
स्थमास्थितस्य च पुराभिवर्तिन
स्तिमृणां पुरामिव रिपोर्मुरद्विषः । अथ धर्ममूर्तिस्नुरागभावितः
स्वयमादित प्रथयण प्रजापतिः ।। 929 ।। प्रवीयते प्रेयतेऽनेनेति प्रक्यणम् । प्राजनम् । प्राजनो दण्ड इति काशिका । अजे: करणे ल्युट् ।
८५८ । उपसर्गाच । (५. ४. ११९) प्रादेयों नासिकाशब्दम्तदन्ताद्वहुव्रीहेरच, नासिकाया नसादेशश्च । असंज्ञार्थ वचनम् । उन्नता नासिका यस्य सः उन्नसः । विश्वगुणादर्श--280.
शतमखमणिस्तोमश्याम शयानमहीवरे
शशिसखमुख राजीवाक्षं समुन्नतनासिकम् । महितचरणं धातुः पत्नया महस्तमसः परं
हृदि लगतु मे बिम्बोष्ठं तद्यथोक्तदायम् ॥ 980 ।।