________________
२६५
बहुव्रीहिसमासपकरणन् ८५३ । अङ्गुलेदारुणि ! (५. ४. ११४)
अङ्गुष्यन्ताबहुव्रीहेः षच स्याहारुण्यर्थे। पञ्च अङ्गुलयो यस्य तत्पंचाङ्गुलं दारु । अङ्गुलिसदृशावयव धान्यादिविक्षेपणकाष्ठमुच्यते । बहुव्रीहे: किम् । द्वे अङ्गुली प्रमाणमस्या द्वयङ्गुला यष्टिः । 'तत्पुरुषस्याङ्गुलेः' (सू. 786 ) इत्यच ।
८५४ । द्वित्रिभ्यां ष मूर्ध्नः । (५. ४. ११५)
वा० । नेतुर्नक्षत्रेऽब्वक्तव्यः । ( 3360.) मृगो नेता यासां ता मृगनेत्रा रात्रयः । पुष्यनेत्राः । भट्टिकाव्ये--IX. 129.
आत्रिकूटमकार्य त्वत्का निर्जङ्गमं जगत् ।
दशमूर्धन् कथं ब्रूषे तानवध्यान्महीपतेः ॥ 922 || दश मूर्धानो यस्य स दशम्र्धा । अत्र षो न । भट्टिकाव्ये-IV. 41.
अथ संपततो भीमान्विशिखै रामलक्ष्मणौ ।
बहुमूनों द्विमूर्धाश्च त्रिमू(श्चाहतां मृधे ॥ 923 ॥ बहुमूर्ध्नः । षो न । द्विमूर्धान् । त्रिमूर्धान् । अनेन षः । भट्टिकाव्ये-IV. 44.
मृगयुमिव मृगोऽथ दक्षिणेर्मा ।
दिशमिव दाववती मरावुदन्यन् ।। रघुतनयमुपाययौ त्रिमृ?
विषभृदिवोग्रमुख पतत्रिराजम् ॥ 924 ॥ त्रयो मूर्धानोऽस्य त्रिमूर्धः। ८५६ । अञ् नासिकायाः संज्ञायां नसं चास्थूलात् । (५. ४. ११८)
नासिकान्ताबहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति, न तु स्थूलपूर्वात् ।