SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरण २६३ बहुव्रीहवयवस्य सहस्य सः स्याद्वा ! पुत्रेण सह सपुत्रः सहपुत्रो वा गतः । भट्टिकाव्ये-V. 108. पिशाचमुखधौरेयं सच्छनकवचं रथम् । युधि कद्रथवद्धीमं बभन ध्वजशालिनम् ॥ 917 || सह छत्रकवचाभ्यां सच्छत्रकवचम् । 'तेन' (सू. 848 ) इति बहुव्रीहिः । मनेन विकल्पात्सभावः । अस्मिन्नेव ग्रन्थे श्लो० 752. सहेमकुम्भान् । 'तेन सह' (सु. 848) इति बहुव्रीहिः । अनेन सभावः । अम्मिन्नेव ग्रन्थे श्लो० 178. सहसीत: सलक्ष्मणः : 'तेन सह (६. 848) इलि बहुव्रीहिः । अनेन सहशब्दस्य सनावविकल्पात् उभयत्रापि प्रयोगः । माधे--XIV. 11. किं विधेयमनया विधीयता त्वत्प्रतापजितयार्थसंपदा। शाधि शासक जगत्रयस्य मा. माश्रवोऽस्मि भवतः सहानुजः ॥ 918 ।। सहानुजेन सहानुजः । अस्मिन्नेव ग्रन्थे श्लो० 473. सहाश्वम् । किरातार्जुनीये-XVIII. 16. सहशरधि निजं तथा कार्मुक वपुरतनु तथैव संवर्धितम् । निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥ 919 ।। सह शरधिभ्यां वर्तत इति सहशरधिः । ८५० । प्रकृत्याशिषि । (६. ३. ८३) सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy