SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५८ चम्पूभारते - III. 112. पवनसखदृशोर्मुदं वितन्वन् पटुतरटङ्कतिकम्पिताटवीकः । पाणिनिसूत्रव्याख्या कुटिलमतनुतार्जुनः कराभ्यां गुणमपि दण्डमिवास्य गाण्डिवस्य || 903 || 6 मतिशयेन पट्टी पटुतरा । पुंवद्भावः । घरूप' (सू. 985 ) इति डीपो पति इति स्यात् । माघे - III. 69. बलोर्मिभिस्तत्क्षणहीयमान रथ्या भुजाया वलयैरिवास्याः । प्रायेण निष्क्रामति चक्रपाणौ नेष्ट पुरो द्वारवतीत्वमासीत् ॥ 904 ॥ द्वारवतीशब्दस्य संज्ञात्वात् अन्यत्र अगुणत्वविवक्षया न च पुंवद्भावः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । नैषधे – III. 105. त्वं हृता भैमि बहिर्गतापि प्राणायिता नायिकयास्यगत्या | न चित्रमाक्रामति तत्र चित्र मेतन्मनो यद्भवदेकवृत्ति ॥ 905 || भक्ती त्वमेव एका वृत्तिर्जीविका यस्य तद्भवदेकवृत्ति । भवच्छब्दस्य सर्वनामत्वाद्वृत्तिमात्रे पुंवद्भावः । कुमारसंभवे - VI. 92. तन्मातरं चाश्रमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ 906 ॥ अन्या पूर्वं यस्यास्ति सोऽन्यपूर्वः । पुंवद्भावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy