________________
२५८
चम्पूभारते - III. 112.
पवनसखदृशोर्मुदं वितन्वन् पटुतरटङ्कतिकम्पिताटवीकः ।
पाणिनिसूत्रव्याख्या
कुटिलमतनुतार्जुनः कराभ्यां
गुणमपि दण्डमिवास्य गाण्डिवस्य || 903 ||
6
मतिशयेन पट्टी पटुतरा । पुंवद्भावः । घरूप' (सू. 985 ) इति डीपो
पति इति स्यात् ।
माघे - III. 69.
बलोर्मिभिस्तत्क्षणहीयमान
रथ्या भुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ
नेष्ट पुरो द्वारवतीत्वमासीत् ॥ 904 ॥
द्वारवतीशब्दस्य संज्ञात्वात् अन्यत्र अगुणत्वविवक्षया न च पुंवद्भावः ।
सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ।
नैषधे – III. 105.
त्वं हृता भैमि बहिर्गतापि
प्राणायिता नायिकयास्यगत्या |
न चित्रमाक्रामति तत्र चित्र
मेतन्मनो यद्भवदेकवृत्ति ॥ 905 ||
भक्ती त्वमेव एका वृत्तिर्जीविका यस्य तद्भवदेकवृत्ति । भवच्छब्दस्य सर्वनामत्वाद्वृत्तिमात्रे पुंवद्भावः ।
कुमारसंभवे - VI. 92.
तन्मातरं चाश्रमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ 906 ॥
अन्या पूर्वं यस्यास्ति सोऽन्यपूर्वः । पुंवद्भावः ।