________________
Gun
पाणिनिसूत्रव्यामा
आप्लुतः स विमलैर्जलैरभू
दष्टमूर्तिधरमूर्तिरष्टमी ।। 47 ॥ भूतपूर्वे चरट् । विश्वगुणादर्शे--228. एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया
श्रीमानत्र गुणाब्धिाविरभवद्रामानुजार्यो मुनिः । त्रय्यन्तामृतसिन्धुमन्थनभवद्धयङ्गवीनात्मकं
विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते ।। 48 !! पचाद्यचि नदट् देवट् चरडिति टिस्करणात् ङीप् । माधे-III. 48.
स्फुरतुषारांशुमरीचिजालै
विनिहताः स्फाटिकसौषपङ्क्तीः । आरुह्य नार्यः क्षणदासु यस्यां
नभोगता देव्य इव व्यराजन् ।। 49 ।। भट्टिकाव्ये-IV. 20.
सौमित्रे मामुपायंस्थाः कनामिछुवंशवदाम् ।
स्वभोगीनां सहचरीमशङ्कः पुरुषायुषम् ॥ 50 ॥ चरतीति चरी । तेन सहशब्दस्य सुप्सुपेति समासः । केचित् सह चरतीति सहचरी 'भिक्षासेनादायेषु च' (सू. 2931), इति चकारादृप्रत्यय इत्याहुः । उभयत्रापि टित्वात् डीप् । चरेष्टः । भद्रिकाव्ये-- II. 28.
तं विप्रदर्श कृतघातयत्ना यान्तं वने रात्रिचरी डुढौके ।
जिघांसुवेदं धृतभासुरास्वस्तां ताटकाख्यां निजघान रामः ।। 51 ॥ नैषधे-II. 95.
परिघावलयच्छन्न या न परेषां ग्रहणस्य गोचरा। फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता ॥ 52||