________________
स्त्रीप्रत्ययप्रकरणम्
हसितसुरपुरश्रीरस्ति सा हस्तिनाख्या
रिपुजनदुरवापा राजधानी कुरूणाम् ।। 42 ॥ राजानो बीयन्तेऽस्यामिति राजधानी । अधिकरणे युट् । भट्टिकाव्ये-II. 47. हिरण्मयी साललतेव जङ्गमा
च्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः
सुता ददे तस्य सुताय मैथिली ।। 48 || हिरण्यस्य विकारो हिरण्मयी। चम्पूभारते---VI. 6. त्रिदण्डकाषायकमण्डलुज्ज्वलो
जपस्फुरदन्तपुटो युधिष्ठिरः । उपानहं दारुमयी पदा स्पृश
नुपासदत्संसदि मेदिनीश्वरम् ।। 44 || तस्य पूरणे डट् । चन्पूरामायणे --II. 59.
मुनिशापकृतोत्पत्तिविपत्तिनिष्प्रतिक्रिया ।
ततो दशरथायाशु दिदेश दशमी दशाम् ।। 45 ॥ चम्पृरामायणे-V. 30.
सौख्यावहस्य पवनात्मजनीयमान
रामाङ्गुलीयकविलोकनवासरस्य । सत्यं कलां शततमी भुवि नैव भेजे
पाणिग्रोत्सवादिन जनकात्मजायाः ।। 46 ।। माधे--XIV. 38.
आननेन शशिनः कलां दध
दर्शनक्षपितकामविभ्रमः ।