________________
२२९
कर्मधारयसमासप्रकरणम् भट्टिकाव्ये-VI 105.
मेषंकरमिवायान्तमृतुं रामं क्लमान्वितः ।
दृष्ट्वा मेने न सुग्रीवो वालिभानु भयङ्करम् ।। 820 ॥ मेघाकरोतीति मेधंकरस्तम् । खच् । मुम् । भयं करोतीति भयंकरस्तम् ।
अस्मिन्नेव ग्रन्थे श्लो० 625. प्रियं कुरुत इति प्रियंकरौ । क्षेम कुर्वन्तीति क्षेमंकराणि । उभयत्र खचि मुम् । भट्टिकाव्ये --VI. 107.
आशितंभवमुत्कृष्ट बलिगते शयितं स्थितम् ।
बहमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम् || 821 ॥ आशित इति आड्यूर्वादनातेरविवक्षिते कर्मणि कतरि क्तः । आशितस्य भावः आशितंभवः । भावे खच् । भट्टिकाव्ये-VI. 108.
ततो बलिन्दमप्रख्यं कपिविश्वम्भराधिपम् ।
सुग्रीवः प्राब्रवोद्राम वालिनो युधि विक्रमम् ।। 822 ॥ बलिं दमयतीति बलिन्दमः विष्णुः । विश्व विभीति विश्वम्भरा भूमिः । उभयत संज्ञायां खच् । भट्टिकाव्ये -VI. 109.
वसुन्धरायां कृत्स्नायां नास्ति वालिसमो बली ।
हृदयङ्गसमेतत्त्वां ब्रवीमि न पराभवम् ।। 823 ॥ वसूनि घारयतीति बसुन्धरा । संज्ञायां खच । हृदयं गच्छतीति हृदयङ्गमम् । हृद्भतम् । खच । भट्टिकाव्येVI. 110.
दुरगैरन्तगैर्माणैर्भवानत्यन्तगः श्रियः ।।
अपि संक्रन्दनस्य स्यात् क्रुद्धः किमुत वालिनः ।। 824 ।। दूरगैर्दूरगामिभिः । अन्तगैः । अत्यन्तगः । डः ।