________________
२२८
पाणिनिसूनव्याख्या भट्टिकाव्य-VI. 99
छलेन दयितारण्याद्रक्षसारून्तुदेन नः ।
असूर्यपश्यया मूर्त्या हृतां तां मृगयावहे ।। 815 ।। असं तुदतीत्यरुन्तुदस्तेन । खश । सूर्य न पश्यन्तीत्यर्यशश्शा । तया । स्वर भट्टिकाव्ये—VI. 100.
प्रत्यूचे मारुती राममस्ति वालीति वानरः ।
शमयेदपि संग्रामे यो ललाटन्तपं रविम् ।। 816 !! ललाटं तपतीति ललाटन्तपस्तम् । खश् । भट्टिकान्ये-VI. 101.
उग्रंपश्येन सुग्रीवस्तेन भात्रा निराकृतः ।
तस्य मित्रीयतो दूतः संप्रासोऽस्मि वशंवदः ।। 817 ।। उग्रं पश्यतीत्युग्रंपश्यः । पापदर्शी । खश् ! मुम् । वश वदतीति वंशवदः । खच।
अस्मिन्नेव ग्रन्थे श्लो० 499. द्विषतस्तापयतीति द्विषन्तपस्तम् । भट्टिकाव्ये-VI. 103.
वाचंयमोऽहमनृते सत्यमेव ब्रवीमि ते ।
एहि सर्वसहं मित्रं सुप्रीवं कुरु वानरम् ॥ 818 ॥ वाचं यच्छतीति वाचंयमो मौनव्रती । वाचंयम इति निपातनान्मुम् । सर्व सहत इति सर्वसहस्तम् । खश्, मुम् । भट्टिकाव्ये---VI. 104.
सर्वऋषयशःशाख रामकल्पतरु कपिः ।
आदायाङ्कषं प्रायान्मलयं फलशालिनम् ।। 819 ।। सर्वं कपन्तीति सर्वकपाणि । अनं कषतीति अभ्रकषम् । उभयत्रापि खचि मुम् ।