________________
कर्मधारयासमासप्रकरणम्
चम्पूभारते-XII. .
ज्वालं विषक्तमिव दानविधौ कृशानोः ___ शोग दधच्चमरवालमुदस्य चापम् । पार्थे निहन्तरि रिपूनथ कान्दिशीका
द्रोणात्मभूकृपमुखाः सहसा बभूवुः ॥ 773 ॥ कान्दिशीका भयद्रुताः । चम्पूरामायणे-IV. 10.
गतदनु तदनुधावनात्कान्दिशीकस्य मम पर्वतेऽस्मिन्नकुतोभयसंचारकारणमाकर्ण्यताम् ॥ 774 !!
कान्दिशीकस्य । अकुतोभयसञ्चारकारणम् ।
७५५ । ईषदकृता । (२, २, ७)
वा० । ईषद्गुणवचनेनेति वाच्यम् । (1316.) ईषत्पिङ्गलः ईषद्रक्तम् । स्मनर्घराघवे--V. 5.
ग--शनैः शनैरनयोर्विरोधे सन्धुक्षमाणे तुल्यव्यसनस्थो दाशरथिः असहाय सूर्यसूनुना सन्धातुमीपत्करः स्यात् ।। 775 ॥
'ईषदुःसुषु' (सू. 3806) इति ईषदुपपदे खल् । ' उपपदमतिक' (रु. 782 ) इति नित्यसमासः ।
७५६ । नन् । (२. २. ६) नज सुपा सइ समस्यते।
७५७ । नलोपो नमः । (६.३.७३) नो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणोऽब्राक्षणः ।