________________
तत्पुरुषसमासप्रकरणम्
२७७
७३६ । विशेषण विशेष्येण बहुलम् । ( २. १. ५७)
नीलमुत्पलं नीलोत्पलम् ।
अस्मिन्नेव ग्रन्थे श्लो० 747. स्निग्धं च तदञ्जनं च स्निग्धाजनम् । ७३७ । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । (२.१.६८)
पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । वा० । अपरस्यार्धे पश्वभावो वक्तव्यः । ( 3253.) अपरश्वासावर्षश्च पश्चाधः।
७३८ । श्रेण्यादयः कृतादिभिः । ( २. १. ५९) वा० । श्रेण्यादिषु व्यर्थवचनं कर्तव्यम् । (1296.) अश्रेणयः श्रेणयः कृताः श्रेणीकृताः । श्रेण्यादिः २. ५. कृतादिः २.६. भट्टिकाव्ये--V. 80. . .
पतत्रिकोष्टजुष्टानि रक्षांसि भयदे वने ।
यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते ॥ 761 ॥ . अश्रेणयः श्रेणयो भूतानि श्रेणीभूतानि । व्यर्थानामच्च्यन्तानां अनेन सूत्रेण समासः । च्च्यन्तानां तु 'ऊर्यादि' (सू. 762) इति गतित्वात् 'कुगति' (सू. 761) इति समासः । भट्टिकाव्ये.-III. 4.
प्रास्थापयत्पूगकृतान्खपोषं
पुष्टान्प्रयत्नादृढगात्रबन्धान् । सहेमकुम्भान्पुरुषान्समन्ता
त्पत्काषिणस्तीर्थजलार्थमाशु ॥ 762 ॥ अपूगाः पूगाः कृतास्तान् पूगकृतान् । च्यर्थसमासः ।
७३९ । तेन नञ्चिशिष्टेनानञ् । (२. १. ६०) नविशिष्टेन तान्तेनानञ् कान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ।