________________
तत्पुरुषसमासप्रकरणम् - २०५ भट्टिकाव्ये -VII. 28.
राघवस्य ततः कार्य कार्वानरपुङ्गवः ।
सर्वदानरसैन्यानामावागमनमादिशत् ॥ 745 !! पुमान्गौः पुङ्गवः । वृषभः । समासान्तष्टच । तेनोपमितसम्नासे वानरपुंगवः ।
कुमारसंभवे---VII. 77.
रोमोद्गमः प्रादुरभूदुमायाः
विन्नाङ्गुलिः पुंगवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन
सम विभक्तेव मनोभवस्य || 746 11 पुमान्गौः पुङ्गवः । टच ।
७३० । संख्यापूर्वो द्विगुः । (२.१.५२) 'तद्धितार्थ ' ( सू. 728 ) इत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् । माधे- III. 63.
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो
वध्वा इवाध्वंसितवर्णकान्तेः। विशेषको वा विशिशेष यस्याः
श्रियं त्रिलोकीतिलकः स एव ।। 747 ॥ त्रयाणां लोकानां समाहारस्त्रिलोकी । 'तद्धितार्थ' (सू. 728) इत्यादिना समासः । अनेन सूत्रेण द्विगुसंज्ञा ।
वा । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः । ( 1556.) . इति स्त्रीत्वम् । द्विगोरिति डीप।
अस्मिन्नेव ग्रन्थे श्लो० 96. पंचानां वटानां समाहारः पंचवटी। ' तद्धि तार्थ (सू. 728) इत्यादिना तत्पुरुषः । अनेन सूत्रेण द्विगुसंज्ञा । स्त्रीत्व , बीप एकवचनम् ।