________________
१९४
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 527. मणिरत्नाधिशयितम् । 'अधिशीस्थासा की' (सू. 542) इति सकर्मकत्वान्न ध्रौव्यार्थादधिकरणे क्तः । अधिकरणे क्तश्चत्यष्ठी स्यात् । सान समस्येत । किं तु मृगाध्यासितशाडलानीतिवत् कर्मणि क्तः । अतस्तृतीयासमासः ।
__७०८ ॥ कमणि च । (२. २. १४) * उभयप्राप्ती कर्मणि ' (सु. 624) इति या षष्ठी सा न समस्यते । आश्चर्या गवां दोहोऽगोपेन ।
___ अस्मिन्नव ग्रन्थे श्लो० 514. शाखामृगेणा का । पुरो लङ्कानगरस्य । कर्मणि षष्ठी । प्रवेशम् । कृत् । समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 515. पुंसा । कतैरि तृतीया । बन्धूनाम् । कर्मणि षष्ठी । वधः । कृत् । समासो न ।
७०९ ! तृजकाभ्यां कतरि । (२. २. १५) 'चुल्तृचौ' (सू. 2895 ) इति कर्थतजकाभ्यां 'कर्तृकर्मणोः कृति' (सू. 623 ) इति कर्मणि षष्ठया न समासः । माघे-V. 69.
धरस्योद्धर्तासि त्वमिति ननु सर्वत्र जगति
प्रतीतस्तरिक मामतिभरमधः प्रापिपयिषुः । उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ
चलाक्रान्तः क्रीडद्विरदमथितोर्वीरुहरवैः ॥ 716 ।। धरस्य । कर्मणि षष्ठी । उद्धर्ता । कर्तरि तृच् । समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 507. सख्यस्य । कर्मणि षष्ठी। कारकः । कर्तरि ण्वुल । समासो न । मैथिल्याः सीतायाः। कर्मणि षष्ठी । द्रष्टा । कर्तरि तृच । समासो न । 'घटानां निर्मातुस्त्रिभुवन विधातुश्च कलहः' इत्यत्र त्रिभुवनस्येति षष्ठी शेषे ' ( 606) इति शेषे षष्ठी । तस्याः समासः । ___अस्मिन्नेव ग्रन्थे श्लो० 32. निजत्रिनेत्रावतरत्वबोधिकाम् । शेषे षष्ठी
समासः।