________________
१८६
पाणिनिसूत्रव्याख्या विविधकामहिता महिताम्भसः
स्फुटसरोजवना जवना नदीः ॥ 694 ।। विविधेभ्यः कामेभ्योऽवगाहाद्यपभोगेभ्यो हिता अनुकूला विविधकामहिताः इति समासः । 'गत्यर्थकर्मणि' (सू. 585) इति द्वितीयाचतुर्यो । चतुर्थीति योगविभागात्समासः।
अस्मिन्नेव ग्रन्थे श्लो० 397. वनाय प्रयाणम् वनप्रयाणम् । भट्टिकाव्ये—I. 1.
अभून्नपो विबुधसख: परन्तपः
श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वर भुवनहितच्छलेन यं
सनातनः पितरमुपागमत्वयम् ॥ 695 ॥ भुवनाय हितं भुवनहितम् ।
६९९ । पंचमी भयेन (२.१. ३७) भीत्रार्थानां (सू. 688 ) इति या पञ्चमी सा समस्यते । चोराद्भय चोरभयम् ।
वा । भयभीतभीतिभीभिरिति वाच्यम् । ( 1275.) वृकाद्भीतो वृकभीतः । अस्मिन्नेव ग्रन्थे श्लो० 179. अलेभयम् अलिभयम् । अस्मिन्नेव ग्रन्थे श्लो० 182. वारिधरारवेभ्यो भीरवो वारिधरारवभीरवः । रघुवंशे--XIV. 23.
तेनार्थिवान् लोभपराङ्मुखेन
तेन न्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान्विनेत्रा
तेनैव शोकापनुदेन पुत्री ।। 696 ॥ विन्नेभ्यो भयं विघ्नभयम् ।