________________
•
तत्पुरुषसमासप्रकरणम्
भट्टिकाव्ये--V. 14.
मांसान्योष्ठावलोप्यानि सावनीयानि देवताः ।
अश्नन्ति रामाद्रक्षांसि बिभ्यत्यश्नुवते दिशः ।। 692 ।। ओष्ठाभ्यामवलोप्तुमत्तुमर्हाणि ओष्ठावलोप्यानि । करणे तृतीयासमासः ।
अस्मिन्नेव ग्रन्थे श्लो० 643. करेण प्रचेयानि करप्रचेयानि । करणे तृतीयासमासः।
६९६ । अनेन व्यजनम् । (२. १. ३४) दन्ना ओदनः दध्योदनः ।
६९७ । भक्ष्येण मिश्रीकरणम् । ( २. १. ३५) गुडेन धाना गुडधानाः । ६९८ । चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः । (२. १. ३६)
चतुर्थ्यन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । वा० । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् । (1278 - 1274)
द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः। द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । नैषधे-I. 137.
मदर्थसन्देशमृणालमन्थरः
प्रियः कियद्र इति त्योदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः
प्रिये स कीदृग्भविता तव क्षणः ॥ 693 ।। मामिमे मदर्थे । किरातार्जुनीये -V.7.
दधतमाकरिभिः करिभिः क्षतैः
समवतारसमैरसमैस्तटैः।