________________
সিলিনাংশ
चम्पूमारते--V. 5.
आस्थानसीनि तनयाद्विरिशेन युद्ध
माकर्ण्य हर्षविकसन्मनसो मघोनः । अङ्गेऽखिले प्रसरतां पुलकाकुराणा
मक्ष्णां सहस्रतयमेव वभूव विघ्नः ॥ 2) !! ४६० । अनो बहुव्रीहेः । (४. १. १२ ) अन्नन्ताबहुव्रीहेने ङीप् । बहुयज्वा, बहुयज्वानौ । माधे- VIII. 41. सङ्कान्तं प्रियतमवक्षसोऽङ्गरागं
साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः । तुष्टैवं सपदि हृतेऽपि तत्र तेपे
कस्याश्चित्स्फुटनखलक्ष्मणः सपल्या ॥ 22 ॥ माघे--1. 48.
विनोदमिच्छन्नथ दर्पजन्मनो
रणेन कण्डास्त्रिदशैः समं पुनः । स रावणो नाम निकामभीषणं
बभुव रक्षः क्षतरक्षणं दिवः ॥ 28 ॥ अनर्धराघवे--V. 45. चिराय रात्रिश्चरवीरचक्र
मारावैज्ञानिक पश्यतस्त्वाम् । सुधासधर्माणमिमां च वाचं
न शृण्वतस्तृप्यति मानस मे ॥ 24 ॥ ४६१ । डाबुभाभ्यामन्यतरस्याम् । (४. १. १३) सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् । सीमा सीमे सीमानौ । दामा दामे दामानौ । 'न पुंसि दाम' इत्यमरः । II. ix. 78. बहुयज्वा बहुयज्वे बहुयज्वानौ ।