________________
नीप्रत्ययप्रकरणम्
४५६ । वनो र च । । ४. १.७) वनिति निपक्वनिप्वनिपां सामान्यग्रहणम् । ङीप् स्यात् रश्चन्तादेशः । 'सुयजोनिप्' (सू. 3091), 'अन्येभ्योऽपि दृश्यन्ते' ( सू. 2980), वनिम् । 'शेः कनिम्' (सू. 3004), 'सहे च' (सू. 3006), इति 'करोतेः कनिप' पारं दृष्टवान् पारदृश्वा, पारदृश्वानौ । पुंसि-- 'विनोः' (सू. 2983) इत्यात्वम् । स्त्रियां तु पारं दृष्टवती पारदृश्वरी ।
भट्टिकाव्ये---V. 34.
यमास्यदृश्वरी तस्य ताटका वेद विक्रमम् ।
शूरंमन्यो रणाचाहं निरस्तः सिझनर्दिना ॥ 18 ।। नैषधे-~-1. 12.
सितांशुवर्णैवयति स्म तद्गुणै
महासिवेन्नः सहकृत्वरी बहुम् । दिगङ्गनाडावरण रणागणे
यशःपटं तद्भटचातुरी तुरी ॥ 19 ।।
४५७ । पादोऽन्यतरस्याम् । (४. १. ८.) संख्यासुपूर्वस्य (सू. 879 ) इति पादशब्दस्य लोपः समासान्तः बहुवीही । द्विपात् , सुपात् । पुंसि । स्त्रियां तु ङीप् वा स्यात् । द्विपदी - सुपदी, द्विपात्-सुपात् । 'कर्णजलका शतपधुभे' इत्यमरः । II. V. 14. भट्टिकाव्ये---IV. 17.
सुपाद्विरदनासोरुम॒दुपाणितलाङ्गुलिः । __ प्रथिमानं दधानेन जघनेन घनेन सा || 20 ।। शोभनौ पादौ यस्याः सा सुपात् । 'सङ्ख्या' (सू. 879 ) इति लोपः। अनेन विकरूपान्न की।
४५९ । मनः । (४. १. ११) मन्नन्तान डीम् । सीमा, सीमानौ