________________
प्रीतो राजाप्यनुजतनुजप्रेममार्गे प्रया मातुर्दोषादिव बहिरगादन्तरप्यन्धभावम् ॥ 672 |
अव्ययीभावसमासप्रकरणम्
सिन्धोः पारे पारेसिन्धु |
अस्मिन्नेव ग्रन्थे इलो० 114. मध्ये समुद्रस्य मध्ये समुद्रम् | अदन्तात्समुद्र
शब्दाद्विकल्पात्सप्तम्या अम्भावः ।
भट्टिकाव्ये - V. 4.
१७५
हतबन्धुर्जगामासौ ततः शूर्पणखा बनात् ।
मध्ये समुद्रं लङ्कायां वसन्तं रावणं गतिम् ॥ 678 || मध्ये समुद्रस्य मध्येसमुद्रम् । अव्ययीभावसमासः । पूर्ववदम् ।
अस्मिन्नेव ग्रन्थे श्लो० 648. मध्ये जलस्य मध्येजलम् । तस्मान्मध्येजलात् । अपञ्चन्या इति निषेधादम् न भवति ।
६७३ | संख्या वंश्येन । (२.१.१९ ) .
वंशो द्विधा विद्यया जन्मना च । तत्र भवो वैश्यः । तद्वाचिना सह संख्या वा समस्यते । मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि ।
६७४ | नदीभिश्च । (२.१.२० )
नदीभिः संख्या प्राग्वत् । समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् ! ' संख्याया नदीगोदावरीभ्यां च ' ( वा. 5047. सू. 948 ) इति सर्वसमासान्तो ऽच् । पञ्चनदम् । सप्तगोदावरम् ।
अनर्घराघवे - VII. 103.
ग–देव ! प्रणम्यतामयमन्त्रविषयलक्ष्म्याः सप्तगोदावरहार कलापैकनायको भगवान्भीमेश्वरः || 674 |
सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् । अव्ययीभावो वा ।
1
६७६ । समासान्ताः । ( ५. ४,६८ )
इत्यधिकृत्य ।