________________
पाणिनिसूत्रव्याख्या
नुः समस्यते सोऽव्ययीभावः । अनुगनं वाराणसी । गायोंपलक्षितेत्यर्थः । लक्षणे परेर्न समासः । वृक्षं परि लक्षीकृत्य । इत्थंभूताख्यानादी अभिप्रतिपर्यनूनां सर्वेषां न समासः ।
१७४
अस्मिन्नेव ग्रन्थे इलो० 298. सद्वृत्ताननु सावृति दुर्वृतो दुष्टचरित्र: सन् । अनोदित्थंभूताख्याने कर्मप्रवचनीयत्वम् । अतो न समाः । परि स्त्रीं श्रीं ह्रीं प्रति । परेबीप्सायां कर्मप्रवचनीयत्वम् । अतो न समासः । ' अनुगवमायामे ' (सू. 951 ) इति निपानः |
६७१ | तिष्ठद्गुप्रभृतीनि च । (२.१.१७ )
एतानि निपात्यन्ते । अयमव्ययीभावः । तिष्ठन्ति गावो यस्मिन्काले दोहाय स तिष्ठदु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भीवारह: निपात्यते । तिष्ठद्गुप्रभृतिः २. १.
समासान्तक
अस्मिन्नेव मन्थे श्लो० 603 तिष्ठद्गु । आयतीगवम् । आयो दोहाय गोचरादागच्छन्त्यो गावो यस्मिन् काले स काल आयतीगवम् ।
६७२ | पारेमध्ये पष्ट्या वा । (२.१.१८ ) .
पारमध्यशब्दौ षष्ठयन्तेन सह वा समस्येते । पदन्तत्वं चानयोर्निपात्यते । प षष्ठीतत्पुरुषः । पारेगङ्गादानय । गङ्गापारात् । मध्येगङ्गात् । गङ्गामव्यात् ।
माघे - III. 70.
पारेजलं नीरनिधेरपश्यन् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्र
प्रतिक्षणोत्कूलितशैवलाभाः 1671
जलानां पारे परतीरे वारेजलम् | 'तृतीयासमयीवहुलम् (सु. 668 ) इति विकल्पात्सप्तम्या अम्भावः ।
चम्पूभारते – II. 16.
पारेसिन्धु प्रथितमथितं प्रत्यहं वर्धमान
सोढुं पार्थाभ्युदयमपटोः खात्मजस्यानुरोधात् ।