________________
पाणिनिसूत्रव्याख्या
अदन्तादव्ययीभावात्तृतीयासतम्योर्बहुलमभावः स्यात् । अपदिशमपदिशेन । भपदिशं अपदिशे।
अस्मिन्नेव ग्रन्थे श्लो० 680. अक्ष्णः समीपे समक्षे । सप्तमी ।
अस्मिन्नव ग्रन्थे श्लो० 638. स्वभ्यास , भन्यासस्य समृद्धौ ! निरन्तराभ्यास इत्यर्थः । सप्तम्या वैकल्पिकोऽम्भावः । भट्टिकाव्ये~-VII. 14
अथोपशरदेऽपश्यन्नौञ्चानां चेष्टनैः कुलैः ।
उत्कण्ठावर्धनैः शुभं स्वणैरम्बरं ततम् ।। 6492 उपशरदे शरत्समीपे । विकल्पादमभावः । अस्मिन्नेव ग्रन्थे श्लो० 645. प्रतिहट्टपथे । सप्तमी । चम्पूभारते----III. 66.
प्रतिनिश्वसिते दीर्घ पाणिना नासिका स्पृशन् ।
भावयामास पार्थोऽयं प्राणायामसमापनम् ।। 650 ।। निश्वसिते निश्वसिते प्रतिनिश्वसिते । वैकल्पिकी सप्तमी !
६५९ । अव्ययीभावश्च । (२. ४. १८) अयं नपुंसकं स्यात् । अस्मिन्नव ग्रन्थे श्लो० 629. उपनदि । अस्मिन्नेव अन्थे श्लो० 628 उपभैमि । अस्मिन्नेव ग्रन्थे श्लो० 599. अन्तर्गिरम् । अस्मिन्नव ग्रन्थे श्लो० 627. उपगङ्गम् ।
६६० । अव्ययीभावे चाकाले (६. ३. ८१) सहस्य सः स्यात् अव्ययीभावे न तु काले । चक्रेण युगपदिति सनकम् । हरेः सादृश्यं सहरि ।