________________
अव्ययीभावसमासप्रकरणम्
१६५ ऋतुगणेन निषेवितुमादधे
भुवि पद विपदन्तकृतं सताम् ।। 646 ।। स्वतरूननतिक्रम्प यथास्वतरू । पदार्थानतिवृत्त्यामव्ययीभावः । हरेः साहश्य सहरि । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् ! चक्रेण युगपदिति सचक्रम् । भट्टिकाव्ये-II. 49.
सुपातमासादितसंमदं त
द्वन्दारुभिः संस्तुतमभ्ययोध्यम् । अश्वीयराजन्यकहास्तिकाढय
मगात्सराजं बलमध्वनीनम् ।। 647 ॥ सह राज्ञा सराजम् । साकल्यवचने योगपद्ये वाव्ययीभावः । 'भव्ययीभावे चाकाले' (सू. 660) इति सभावः । ' अनश्च' (सू. 678) इति टच समासान्तः । सहशः सख्या ससखि । क्षत्राणां सम्पत्तिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमति । साकल्येनेत्यर्थः । अन्ते, अग्निग्रन्थपर्यन्तमधीते सामि ।
६५७ । नाव्ययीभावादतोऽम्त्वपञ्चम्याः । (२. ४. ८३) अदन्तादव्ययीभावात्सुपो न लुक् । तस्य तु पंचमी विना अमादेशश्च स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 643. प्रतियोधम् । लुगभावाम्भावौ । भट्टिकाव्ये-III. 50.
चिरं रुदित्वा करुणं सशब्द ___ गोत्राभिधाय सरितं समेत्य । मध्येजलादाघवलक्ष्मणाभ्यां
प्रतं जलं व्यञ्जलमन्तिकेऽपाम् ॥ 648 ।। जलस्य मध्यं मध्येजलम् । तस्माज्जलमध्यादित्यर्थः । त्यब्लोपे पञ्चमी । तत्र खात्वा निर्गत्येत्यर्थः । 'पारेमध्ये षष्ठ्या वा' (सू. 672) इत्यव्ययीभावः । अपंचम्या इति निषेधान्न लुगम्भावौ ।
६५८ ॥ तृतीयासप्तम्योर्बहुलम् । (२. ४. ८४) ...