________________
कारकप्रकरणम्
६२५ । क्तस्य च वर्तमाने । (२. ३. ६७) वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । 'न लोक' (सू. 627 ) इति निषेधस्यापवादः । 'मतिबुद्धि' (सू. 3089) इति वर्तमाने क्तः । 'क्तेन च' (सू. 706 ) इति क्तेन षष्ठी न समस्यते ।
अस्मिन्नेव ग्रन्थे श्लो० 514. रामस्य संमतं रामेण संमन्यमानम् । माधे-XV. 14.
यदपूपुजस्त्वमिह पार्थ
मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो
दयितं जनः खलु गुणीति मन्यते ॥ 521 ॥ सतामपूजितं सद्भिरपूज्यमानम् । माधे-XVI 15.
विजितक्रुधमीक्षतामसौ
महतां त्वां महितं महीभृताम् । असकृजितसयत पुरो
मुदितः सप्रमदं महीपतिः ॥ 522 ॥ महीभृतां महितं पूज्यमानम् । किरातार्जुनीये----XI. 42.
न ज्ञातं तात यनस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्म मुनिभिस्तुल्यमिच्छसि ॥ 523 ॥ ते न ज्ञातम् । त्वया न ज्ञायते । किरातार्जुनीये---XII. 31.
किमुपेक्षसे कथय नाथ
न तव विदितं न किंचन ।
17