________________
१२८
पाणिनिसूत्रन्याख्या नैषधे--II. 61.
अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ।। 51718 प्रवर्तना प्रेरणा । ण्यासबन्यो युच् । कृति स्त्रियाम् आकारान्तः प्रवर्तनाशब्दः । अतो नायं नियमः । नोऽस्माकम् । कर्तरि षष्ठी । भवतः । कर्मणि पाठी । अनवराघवे--- 1. 10.
तमृषि मनुष्यलोकप्रवेशविश्राप्रशाखिन वाचाम् ।
सुरलोकादवतारमान्तरक्षेदच्छिदं वन्दे ।। 518 11 शब्दानामनुशासनमाचार्येण्याचार्यस्य वेतिवत् बाचामिति कर्तरि वैभाषिकी षष्ठयस्तु । मनुष्यलोकस्येति कर्मणि षष्ठी ! प्रवेशः । कृत् । अत्र समासः कृतः । 'कर्मणि च ' (सू. '708) इति सूत्रे या कर्मणि षष्ठी विहिता तस्याः षष्ठयाः समासनिषेधात् ।
चम्पूरामायणे-V, 25. उपन्नवृक्षस्य परोक्षभावादु पेत्य पृथ्वी सुचिरं लुठन्त्याः ।
नक्तंचरस्त्रीमुखकर्शितायाः सीतालतायास्त्रिजटा जटाभूत् ।। 6- 15 ! सीतालतावास्त्रिजटा जटाभूत् । सीतालतायाः । षष्ठी । नैषधे---III. 69.
नृपेण पाणिग्रहगो स्पृहेति
नलं मनः कामयते ममेति । आश्लेषि न श्लेषकवेर्भवत्याः
श्लोकद्वयार्थः सुधिया मया किम् ।। 520 ।। भवत्यास्तव सम्बन्धि । नृपेण का । पाणिग्रहण पाणिपीडनम् । उभयप्राप्ती कर्मणि विवक्षितायाः षष्ठयाः ‘कर्मणि च' (सु.708) इति निषेधेऽपि शेषे पष्ठीसमास इति व्याख्यातम् । समासात्पूर्वं 'उभयप्राप्तौ कर्मणी ति कर्मणि षष्ठयां समासकाले शेत्रे षष्ठी कथम् । तस्मात् नृपेणेति कर्तरि तृतीया । भवत्याः इति कर्मणि षष्ठी। पाणिग्रहणं विवाहः कृत् इति मन्ये ।