________________
रघुवंशे- -XII. 69.
तस्मै निशाचरैव प्रतिशुश्राव सधवः ।
काले खलु समारब्धाः फलं बघ्नन्ति नीतयः ॥ 878 ॥ राघवस्तस्मै विभीषणाय निशाचरैधर्थं प्रतिशुश्राव प्रतिज्ञातवान् ।
रघुवंशे — XV. 4.
कारकप्रकरणम्
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विन्नप्रतिक्रियाम् । धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ 874 ||
काकुत्स्थस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां प्रतिशुश्राव प्रतिजज्ञे ।
कुमारसम्भवे -- II. 56.
वृतं तेनेदमेव प्राङ् मया चास्मै प्रतिश्रुतम् । वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ 375
प्राक् पूर्वं तेनेदमेव वृतं प्रार्थितं मया चास्मै तारकाय प्रतिश्रुतम् प्रतिज्ञातम् । ५७९ । अनुप्रतिगृणश्च । (१. ४. ४१ )
८१
आभ्यां गृणातेः कारकं पूर्कयापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 372. गृणन्द्रथोऽनुगृणन्त्यन्ये । मध्यमा गुणद्वयः सद्भयः स्ताव केभ्योऽनुगृणन्ति दित्सासूचकालापैः प्रोत्साहयन्तीत्यर्थः ।
५८० | परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१.४. ४४ )
सम्प्रदानं वा स्यात् । शतेन शताय वा परिक्रीतः ।
अस्मिन्नेव ग्रन्थे श्लो० 804. सम्भोगाय परिक्रीतः सम्भोगेन दासीकृतः ! वा । तादर्थे चतुर्थी वाच्या । ( 1458.)
मुक्त हरि भजति ।
वा० । क्लृपि सम्पद्यमाने च । (1459.) भक्तिर्ज्ञानाय कल्पते । सम्पद्यते जायत इत्यादि ।
12