________________
पाणिनिसूत्रव्याख्या
माधे--XV. 41.
न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः।
शौरिसमयनिगृहीतषियः प्रभुचित्तमेव हि जनोऽनुवर्तते ।। 370 3 यदुनृपास्तं चैद्य न प्रचुक्रुधुः।
किरातार्जुनीये---XI. 16.
प्रपित्सोः किं च ते मुक्ति निस्पृहस्य कलेबरे। .
महेषुधी धनुर्भामं भूतानामनभिद्रहः ।। 372 24 भूतानामिति कर्मणि षष्ठी । अनभिद्रुहोऽहिंसकस्य ! 'सल्यूहिष' (मु. 2975) इति किम् । अन्येषां योगे सम्प्रदानं स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 351. सीतायै नाभ्यासूयत । . ५७७ । राधीक्ष्योर्यस्य विप्रश्नः । (१. ४. ३९)
एतयोः कारकं सम्प्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते को। पृष्टो गर्गः शुभाशुभ पर्यालीचयतीत्यर्थः !
.' अस्मिन्नेव ग्रन्थे श्लो० 368. ईक्षितव्यं परस्त्रीभ्यः। का शुभा न शुभेति यदीक्षितव्यमीक्षणीयम्।
५७८ ३ प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता । ( १. ४. ४०) आभ्यां परस्य शृणोतेयोगे पूर्वस्य प्रवर्तनाख्यव्यापारम्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति । शृणोति वा । भट्टिकाव्ये-VIII. 77.
शृण्वद्भयः प्रतिशण्वन्ति मध्यमा भीरु नोत्तमाः ।
गृणद्योऽनुगृणन्त्यन्ये कृतार्था नैव मद्विघाः ॥ 372 ।। अण्वद्भयः श्रुतिशालिभ्यः प्रतिशण्वन्ति तथैव कुर्म इति प्रतिमानत इत्यर्थः ।