________________
२]
प्रथमः सर्ग [ नेमिनाथमहाकाव्यम, लोकनाभ्या मध्यभागे जम्बूद्वीपोऽस्ति' विश्रुतः। गम्भीरो वर्तुलाकारो नाभिदेश इव स्त्रियाः ।।१०॥ या पड्वर्षधरश्चित्रमनादिनिधनोऽपि सन् । लक्षयोजनमानोऽपि नि.सख्योजन श्रितः ॥११॥ पार्वत' सर्वतो यस्तु लवणोदधिनावृतः । आलीढः परिवेषेण वृत्तश्चन्द्र इवावभी ।।१२।। तत्रास्ति भारतं वर्ष कोदण्डाकारधारकम् । स्वश्रियां गर्वतः शंके लीलया वक्रता गतम् ॥१३॥ वैताढ्येन द्विघाभक्त राजतेन रराज यत् । सीमन्तकेन काम्येन यथा सीमन्तिनीगिरः ॥१४॥ गङ्गा-सिन्धुनदीयोगात् षट्खण्ड यदजायत । सम्प्राप्तप्रसराभिस्तु को वा स्त्रीभिर्न खण्डित. ॥१५॥ तत्रासीत् परमश्रीक नाम्ना सूर्यपुर पुरम् । सर्वस्वमिव मेदिन्याः स्वभर्तेव कुलस्त्रियाः ॥१६॥ न मन्दोऽपि जन कोऽपि पर मन्दो यदि ग्रह । वियोगो नापि दम्पत्योवियोगस्तु पर वने ॥१७॥ वधोऽन्तरगशत्रूणा यत्रान्येपामसम्भवात् । न्यायवद्भपतेर्भावादुदयो धर्मचारिणाम् ॥१८॥ मन्दाक्षसवृतांगोऽपि न मन्दाक्षकुरूपभाक् । सदापीडोऽपि यत्रामीद् विपीडो मानिनीजन. ॥१९॥ रत्नश्रेणिचिता यत्र पाण्डुरा दधिपिण्डत. ।
आवासा श्रीमता रेजुहिमाद्रीरका इव ॥२०॥ १. यसो. मा. जम्बुद्वीपोऽस्ति