________________
द्वादशः सर्गः
कलधौतहेममणिशालमध्यगं सुरसंघनिर्मितमृगेन्द्रविष्टरम् । श्रितवान् रराज भगवानथासित कनकाद्रिशृ गमिव नव्यनीरद ॥१॥ भगवन्तमाप्तवरकेवल तत. परिगम्य हर्षजलधिविवन्दिषु । निरगाज्जवाद्यदुपति सनागरो नहि धर्मकर्मणि सुधीविलम्बते ॥२॥ प्रचलन् पथि प्रणयपूर्णमानस. पुरकाननप्रभृतिदर्शनोन्मुखीम् । 'नगरीजनः प्रियतमा निजामिद वचन कराभिनयपूर्वमब्रवीत् ।।३।। विविध म गुपिलवल्लीमण्डप सफल सुगन्धि सुमनोमनोरमम् । बहुभिविहगमकुल निषेवित प्रविलोकये सुतनु । पावन वनम् ॥४॥ मदमत्तभृ गपिकयोषिता रवैरपि' वातनुन्नदलहस्तसज्ञया । अयमाह्वयन्निव फलार्थिन जन सहकारवृक्ष इह लक्ष्यते प्रिये ॥५।। उपरि भ्रमभ्रमरमण्डलैरसो कथिताग्र्यगन्धमहिमापरद्र मान् । तरलैर्दले स्फुटमघ. क्षिपन्निव प्रसृताक्षि | केतकीतरुविलोक्यताम् ॥६॥ शिशिरा परोपकृतिहेतवे सदा दधतोऽपि जीवनमनाविल बहु । विदितास्तथापि च जडाशया अमी सुकृतैर्यशो नियतमाप्यते प्रिये ॥७॥ शुकशारिकाद्विकपिकादिपक्षित परिरक्ष्ययमाणमभितः कृषीवलैः । प्रसमीक्ष्यता स्वफलभारभगुरं परिपक्वशालि वनमायतेक्षणि ॥८॥ पवमानचचलदल जलाशये रवितेजसा स्फुटदिद पयोहम् । परिशक्यते बत मया तवाननात् कमलाक्षि ! विम्यदिव कम्पतेतराम् ।। गुडशर्कराजनक इक्षुदण्डक परम रस वहति यद्यपि प्रिये । अधरस्तथापि च तवाधरादतिभूषणाद्' भवति नीरसो यतः ॥१०॥
१. वि. मा. रवैग्य २. यशो. मा , वि. मा तवापरादसावपि भूपणाद्