________________
नवम सर्गः
[ नेमिनाथमहाकाव्यम्
किवा भूयो वयं वच्मत्रिकालज्ञानवान् स्वयम् । भगवानेब जानाति लोकलोकोत्तरस्थितिम् ॥३८॥ अत्राभ्यन्तरे शिवाभ्येत्य वाही धृत्वा जगत्प्रभुम् । प्रोवाचेति वलिं यामि कुमार तव नेत्रयो ॥३६॥ वत्स ! प्रसद्यता सद्यो विवाहः प्रतिपद्यताम् । पूर्यन्तां नरकोटीर ! पितृणा हि मनोरथा. ॥४०॥ निस्स्पृहोऽपि जगन्नाथोऽथ पित्रोरुपरोधत । प्रपेदे तद्वच. किञ्चिदलध्यवचनौ हि तौ ॥४१॥ तत. प्रमुदिता सर्वे यादवाः सह बन्धुभि. । विशेषेण शिवादेवो समुद्रविजयस्तथा ॥४२॥ इतनाम्भोजतुल्याक्षो भोजराजागभूरभूत् । उग्रसेनो महीजानिरुग्रसेनासमन्वितो ॥४३॥ प्रतापयशसी येन शत्रूणा रणपर्वणि । ग्रस्येते परमस्थाम्ना चन्द्रार्कादिव राहुणा ।।४४॥ करकृतकरवालाय प्रसाद्य यस्मै रणोत्थिताय । करवाला करवालान् वितरन्ति विपक्षभूपालाः ॥४५॥ * प्रातः सामन्त भूपालरुपदीकृतवारणा. । क्षरन्मदजलर्यस्य सिंचन्त्यास्थानमण्डपम् ॥४६।। आधारो दीनलोकानां शरण्यः शरणार्थिनाम् । यो निधिर्गुणरत्नानामाराम. कीत्तिवीरुधाम् ॥४७।। कोशो लक्ष्मीसरस्वत्योरालान सत्त्वहस्तिनाम् । मण्डपो नीतिवल्लीना य स्तम्भ. कुलसद्मनाम् ।।४८।। २ वि मा. करवालान् ददति किल * 'करे दण्ड़े वाला कुमारिका वयम् इति सूचनाय करवालाश्चन्द्रहासान ददति' इति टीका।