________________
नेमिनाथमहाकाव्यम् ]
नवम सर्गः
आत्मा तोषयितु नैव शक्यो वैषयिकै सुखैः । सलिलैरिव पाथोधि. काष्ठरिव धनञ्जयः ।।२५।। अनन्तमक्षय सौख्य भुञ्जानो ब्रह्मसद्मनि । ज्योति.स्वरूप एवाय तिष्ठत्यात्मा सनातन ॥२६॥ अत. पर न वक्तव्य युष्माभिरीश पुन । अवाच्य शिष्टलोकस्य ग्रामीणजनतोचितम् ॥२७॥ स्वभाव मे न जानीथ वसन्त्योऽपि सदान्तिके । पाथोजस्य यथामोद भेका सहोषिता अपि ॥२८॥ प्रजावत्य. समस्तास्ता निशम्येति प्रभोर्वच । एव वभापिरे भूय. सत्याभि सरलोक्तिभि ।।२६।। श्रीनेमे नरकोटीर जगत्पूज्य जिनेश्वर । यदुक्त भवता सर्वं तदेव खलु तात्त्विकम् ।।३०।। जानीमश्च वय पूज्य ! यदेते विपयास्तव । मानसे प्रतिभासन्ते नि स्वादास्तुषरागिवत् ॥३१॥ पर स्वपितरौ सर्वबहुमान्यौ तनूद्भवै । युज्मादृशै विशेषेण विचाराचारकोविदै. ॥३२॥ अविभाव्यात्मन कष्ट पितृन् प्रीणन्ति नन्दना । स्कन्धारोपितपित्रम्ब श्रवणोऽत्र निदर्शनम् ॥३३॥ किंच पित्रो सुखायैव प्रवर्तन्ते मुनन्दना. । सदा सिन्धो प्रमोदाय चन्द्रो व्योमावगाहते ॥३४।। भुवने निस्स्पृहा एव परानुग्रहकाम्यया । प्रवर्तन्ते महात्मानो दाक्षिण्येन वशीकृता ॥३५॥ अपि प्रमोदयन् विश्व यथा कुमुदवान्धवः । प्रीणयत्यधिक सौवान् कृत्वेति कुमुदाकरान् ॥३६॥ तथा त्वमपि विश्वेश | जगदाह लादकारकः । अतो विशेषतो वगं स्व प्रोणयितुमर्हसि ॥३७॥युग्मम्।।