________________
४४ ]
अष्टम. सर्ग [ नेमिनाथमहाकाव्यम् पयोदनाद परिशकमाना मयूरवाला अभिनर्तयन्तम् । मातो जिनेन्द्रेण स पाञ्चजन्यो ध्वनि ससर्जेव हतो मृदग ६०त्रिभि.कुलकम् -
चकितेनेव मुरारिणा ततो विपुल नाथवल बुभुत्सुना । जगदे भगवान् स सस्मित मम वाहु नमयेति वान्धव ॥६१|| हरिभुज भगवानथ लीलया कमलनालमिवानतिमानयत् । भवति तावदिभस्य करो दृढ स्पृशति यावदमु न मृगाधिप ।।६२॥ - अवलम्व्य चतुर्भुजोऽथ दीर्घा भुजवल्ली भुवनैकनायकस्य । नमनाक्षम आसदत्सुपर्व मशाखाश्रितवानरस्य शोभाम् ॥६३|| सकलराज्यमिद कमलापते । कुरु यथेष्टमशङ्कमनाकुल. । अलमपि स्पृहयालुरह न तन्निजगदे प्रभुरणेति वृषाकपि ।।६४।। लक्ष्मी-लावण्य-लीला-कुल-गृह-ललनाश्लेषमुक्ताभिलाषो
__ मन्वानस्तुच्छमेतद्विषयरससुख तत्त्वतो दुःखरूपम् । भुञ्जानो ज्ञानतोषप्रशमरतिसुख शाश्वतानन्दहेतु
तस्थावित्थ जिनेशो निजपितृसदने यौवनस्थोऽपि सुस्थ. ॥६५।। -
इति श्री कीतिराजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये
पड्ऋतुवर्णनो नामः अष्टम सर्ग ।