________________
नेमिनाथमहाकाव्यम् ] अष्टम. सर्ग.
[ ४३ उपययो शनकरिह लाघव दिनगणो खलराग इवानिशम् । ववृधिरे च तुपारसमृद्धयोऽनुसमय सुजनप्रणया इव ॥४८॥ सत्यज्य विलासिनीजनो मुक्ताफलमाला समुज्ज्वलाम् । भेजे दहन प्रदाहक काले रिपुमप्याश्रयेत्सुधीः ॥४६॥ इह भर्तृभिविरहितागनामनोवनदीपितप्रचुरकामपावकः । हिमपातदग्धजलजातकानन शिशिरो ययावशिशिरो गुणरथ ॥५०॥ भृङ्गा. स्फुटत्काचनपाखण्डे स्वैर पपुर्ये सुरभी मरन्दम् । माघे करीरेषु चरन्ति तेऽपि गतिविधातुविषमेति शके ॥५१॥ मलयजादिविलेपन-नीररुच्छयन-माल्यविधावकृतादराः । हिमवलेन तथाप्यहरस्तरा युवतयो वत योगिमनांस्यपि ॥५२॥ समकेतकचम्पककुन्दलताजलजातवने हिमपातहते । भ्रमरो विचचार शिरीषवने सकलोऽप्युदित श्रयतीह जनः ॥५३॥ ऋतुगणे सुभगेऽपि किलेशे न च कदा चकमे विषयान् विभूः । मृगपतिर्निवसन् विपिनान्तरेऽपि सरसानि फलानि कदात्ति किम्।५४१ अमोघशस्त्र विषमास्त्रवीर प्रायुक्त यद्यज्जगताम्प्रतीक्ष्ये । बभूव तत्तद् विगतप्रताप क्षीराम्बुराशाविव वासवाखम् ॥५५॥ खेलनाथोऽयान्यदा शस्त्रशाला प्राप्त शख वीक्ष्य नारायणस्य । आदाच्चैन पाणिना रक्तभासा शृगेणेव प्राग्गिरिश्चन्द्रविम्बम्।५६। त्रिजगत्प्रभुपाणिपकजस्थो हिमपिण्डादपि पाण्डुर. स शख । प्रमुमोप विकस्वराम्बुजातोपरिवर्तिष्णुमरालवालशोभाम् ।।५७।। प्रमथ्यमानाम्बुधिनादधीर सव्यापयन्त युगपद् दिगन्तान् । वद्धस्पृह श्रीरमणस्य चेतो भयेषु कुर्वन्तमसस्तुतेषु ॥५८।। क्षोणीभृता गह्वरमण्डलोत्यै प्राप्तप्रकर्ष प्रतिशब्दसधै. । विश्वत्रयं शब्दमय सृजन्तमेकार्णव कालमिव क्षयाख्यम् ॥५६॥