________________
अष्टमः सर्गः
अथ सम पितृबन्धुमनोरथै प्रववृधे भगवान् पितृसद्मनि । अभिमंतार्थकता प्रमुखैर्गुणैः' सुरगिराविव बालसुरद्रुमः ॥१॥ मरकताश्मदलैरिव निर्मित परिनिबद्ध मिवाञ्जनपुद्गलै । अभिनवाम्बुधरैरिव वेष्टित प्रभुवपु फलिनीति दिद्युते ||२|| सरसिज परिहाय समाश्रयन् भगवतश्चरणाम्बुरुह श्रियः । परिचिते ननु सत्यपि सुन्दरे किल जनोऽभिनवे रमतेऽखिल. ||३|| अतिकठोरतया परिघ. पुनर्भुजगराजवपुर्विषवत्तया । नहि ययावुपमाविषय प्रभोः सरलयो शुभयोर्भुजदण्डयोः ॥४॥ परमसौम्यगुणो जनदृक् सुखोऽतिशुचि भागवताननमानशे । इव मरीचिसमुच्चय उज्ज्वल. सकलशीतलदीधितिमण्डलम् ||५|| शमसुधारसवीचिपरिप्लुते लवणिमाञ्जनमिश्रिततारके 1 परितिरस्कृत पकज सम्पदी भवगतो नयने स्म विराजत ॥६॥ हरिमुखैर्यदुराजकुमारकैः सह समानवयोभिरनिन्दितः । जिनपति: प्रचिखेल विमोहयञ्छुभवने भवनेऽपि च नागरान् ॥७॥ समतिक्रम्य शनैरथ शैशव समुपलभ्य विभुर्नवयौवनम् । परिपुपोप वपु सुभगा कृतिर्गजगतो जगतो नयनामृतम् ||८|| किमुत पालयितु भुवमागत. सुरपति किमु वा मदनोऽङ्गवान् । अयमभूदिति वीक्ष्य जिनेश्वर जनतया नतया हृदि तर्कितम् ॥६॥ अभवदस्य परार्थफलो गुणो निपुणता जगत. प्रतिबोधकृत् । अभिमता विभुताखिलयोगिना सुजनता जनतापहृतौ क्षमा || १०| अभिनव वय ऋद्धिरनुत्तरा परमरूपकला प्रभुताद्भुता । परमभून्न विकारपरं मनोऽत्रभवतो भवतोयधिमोचिनः ॥११॥ १. यशो मा अभिमताप्यंकता
'२. महि, विमा परमाद्भुला