________________
सप्तमः सर्गः
वर्द्धस्व त्व महाराज | जातस्ते पुत्रपु गवः । समुद्रविजयायाथ शशसुरिति चेटिका ॥१॥ तासा वाग्भिर्महीनाथ. सुधासिक्त इवाभवत् । कस्य वा न भवेद् हर्षस्तादृशागजजन्मनि ।।२।। ततस्तुष्टमना राजा वस्त्राभरणकांचनैः । वर्धापका. समस्तास्ताश्चक्रे कल्पलतोपमा ॥३॥ प्रसादसुमुख सोऽथ पाकशासनशासन । नियोगिन समाहूय झटित्येवान्वशादिति ।।४।। यादवान्वयपूर्वाद्रावुटित. पुत्रभास्कर । सर्वेर्दत्तावधानों युष्माभि. श्रूयतामित. ॥५॥ यदस्ति बन्दिगोवृन्द रुद्ध चारकवाटके । मुच्यतामधुना सर्व तद् युष्माभिर्मदाज्ञया ॥६।। पजराम्भोजसस्थास्नून् विहगममधुव्रतान् । रवेरिवाशवो यूय कुरुध्व स्वैरगामिन ॥७॥ अमारिघोषणा चापि घोषताखिलपत्तने । उत्पन्नो मे सुतो यस्माच्छरण सर्वदेहिनाम् ॥८ विघद्ध्व नगर सर्व सारश्रीखण्डपकिलम् । पचवर्णैस्तथा पुष्पैर्दन्तुर धूपधूसरम् ।।९।। इत्यादि शासन राज्ञः प्रतिश्रुत्य नियोगिनः । मुदिता निर्ययु सौघात् काननादिव हस्तिन ॥१०॥ तत्क्षणादेव ते सर्वमकार्षुर्नु पशासनम् । वचसा भूभुजा सिद्धिर्मनसेव दिवौकसाम् ॥१२॥ तदा सूर्यपुर रेजे नृत्यत्तोरणकेतनम् । प्रभो पुण्यप्रभावेण दिव. खण्डमिव च्युतम् ॥१२॥