________________
5
10
SUPPLEMENTARY PASSAGES
श्रम°। देव अयमसौ कथं कथमपि जाम्बवता प्रतिबोध्यमानं प्रत्यग्रपितृवियोगविहलं वत्समङ्गदं पुरस्कृत्य हनुमद्विभीषणाभ्यामनुगम्यमानः कतिपयप्रधानव्यक्तिपरिवृतः कनिष्ठः कपिराजो देव सभाजयितुमभ्येति ॥
लक्ष्म'। सकौतुकम् । आर्ये विविच्याधिगन्तुमीहे ॥
श्रम० ।
20
सर्वे । सप्रणामम् । जयति जयति देवो रामभद्रः ॥ रामः'। भद्रा इत्थं सानात्कृतव्यलाकः किमनुयुञ्जे ॥
वीरः सोऽयं सुपर्वचितिभृदिव समुत्तप्तकार्तस्वरश्रीः सौरिर्वमे पिशङ्गस्फुरिततनुरुही धूमिलायो हनुमान् । पार्श्वेऽप्यत्राञ्जनक्ष्मापतिरिव शनकैः सञ्चरिष्णुः कनीयान् रक्षोनाथः प्लवगपरिवृढाः पृष्ठतोऽमी नलाद्याः ॥ ६२ ॥ ततः प्रविशति हनुमद्विभीषणाभ्यामनुगम्यमानः सपरिवारः सुग्रीवो जाम्बवत्प्रतिबोधितोऽङ्गदश्च ॥
सुग्रीवो जाम्बवतोमुखमीचते ॥ 15 जाम्ब' । देव दाशरथे किं प्राकृतमिव सुग्रीवं बोधयसि । स्वस्वपाप्मानुरूपां फलपरियतिमनुवते किल जन्मभाजः । सुग्रीवः । सव्यलीकम् ।
1
भवान् धर्मो धर्मप्रवणमतिरेष प्रतिदिनं
भवान् ध्येयो ध्याता पुनरयमनावर्जितमनाः । भवान् शास्ता शिष्यः पुनरयमतन्द्रः किमपरं भवान् सेव्यः सर्वैरुपधिभिरय सेवक इति ॥ ६३ ॥ .
दण्डवदेन प्रणिपातयति ॥ रामः । ससम्भ्रममुत्थाप्य परिष्वज्य च । सखे वैकर्तन । एक एव नौ प्रधानपुरुषः प्रसविता सविता । तत् किमुपचारैः ॥
25 सुग्री० । देव यद्यहमनुग्रहपात्रं तदङ्गदस्य प्लवङ्गाधिपत्यदानेन मामनुगृह्णातु भवान् ॥ रामः । विहस्य । किमचानुग्राह्यम् ।
2
सर्वे । साधु सुग्रीव साधु ॥
अयं वत्सो गुणैः स्वाध्यः पितृभाक्तपरः ।
वत्सलश्च वाद किं विधेयमिहाधिकम ॥ ६४ ॥ *
Kreads पावेत्यचा०.
रामः om K.
8
283
4
Kreads राम: for सुग्रीवः
K om. this number.