________________
७६
कर्मकाण्डक्रमावली। यथाशक्ति ददी तैतान्समर्थस्य समर्थकान् । व्रताङ्गानि जटामस्मदण्डकौपीनसंयमान् ॥७४५ ॥ ईशानायेहदाद्यैर्वा परिजप्य यथाक्रमम् । स्वाहान्तसंहितामन्त्रैः पात्रेष्वारोप्य पूर्ववत् ॥७४६ ॥ संपाताभिहतात्कृत्वा स्थण्डिलेशाय दर्शयेत् । रक्षणार्थं घटाधस्तादारोप्य क्षणमात्रकम् ॥७४७ ॥ शिवादाज्ञां समादाय ददीत वतिने गुरुः । एवं समयदीक्षायां विशिष्टायां विशेषतः ॥७४८ ॥ वह्निहोमागमज्ञानयोग्यः संजायते शिशुः । नाडीसंधानहोमस्तु मन्त्राणां तर्पणं तथा ॥ ७४६ ॥ पूर्वजातेः समुद्वारो द्विजत्यापादनं तथा । चैतन्यस्यापि संस्कारो रुद्रांशापादनं तथा ॥७५० ॥ दत्त्वा पवित्रकं होमशतं वाथ सहस्रकम् । दीक्षैषा सामयी प्रोक्ता रुद्रेशपददायिनी ॥७५१ ॥ इति समयदीक्षाविधिः ॥
अथ निर्वाणदीक्षा अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनम् ।। पाशबन्धनशक्त्यर्थं ताडनादिकृतेऽपि च ॥७५२ ॥ एकैकया तदाहुत्या प्रत्येकेन त्रयेण वा ।। वीजगर्भशिखायन्धहूंफडन्तध्रुवाणुना ॥ ७५३ ॥ डों हूंहूंहूं फट् मूलस्य, डों हूंहूंहूहूं फट हृदयस्य, एवं शिरःप्रभृतीनामपि ॥