________________
७८
सोमशम्भुरचिता । आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते । स्वातन्त्र्यात्मगुणव्यक्तिरिह पुंसवनं स्मृतम् ॥ ७३५ ॥ मायात्मनोविवेकेन ज्ञानं सीमन्तवर्धनम् । शिवादिशुद्धसद्वस्तुस्वीकारो जननं मतम् ॥ ७३६ ॥ बोधनं यच्छिवत्वेन शिवत्वाहस्य नाम तत् । संहारमद्रयात्मानं स्फुरद्वह्निकणोपमम् ॥७३७ ।। निदधीत समादाय निजे हृदयपङ्कजे । ततः कुम्भकयोगेन मूलमन्त्रमुदीरयन् । ॥७३८ ॥ कुर्यात्समरसीमावं तदात्मशिवयोहदि । ब्रह्मादिकारणत्यागक्रमाद्रेचकयोगतः ॥ ७३६ ॥ नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया । हृत्संपटितमन्त्रण रेचकेन विधानवित् ॥७४०॥ शिष्यस्य हृदयाम्मोजकर्णिकायां विचिन्तयेत् । पूजां शिवस्य वह्वेश्च कारयित्वा यथोदिताम् ॥ ७४१ ॥ प्रणतिं कारयेच्छिष्यं समयान् श्रावयेद्यथा । न निन्देकारणं देवं न शास्त्रं तेन भाषितम् ॥ ७४२ ॥ न गुरुं साधकं चैव लिङ्गच्छायां न लषयेत् ।
नाद्यान्न लङ्घनिर्माल्यं तदद्याच्छिवदीक्षितः ॥७४३ ॥ तत् शिवनिर्माल्यं शिवदीक्षित एव अंद्यात् भक्षयेत्, नतु
अन्य इत्यर्थः ॥ शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि । बालवालिशवृद्धस्त्रीभोगरुग्बाधितात्मनाम् ॥७४४ ॥