________________
कर्मकाण्डक्रमावली।
७७
संहारिण्या तदाकृप्य ध्रुवेण स्वहृदि न्यसेत् ।। ततो वागीश्वरीयोनौ मुद्रयोद्भवसंज्ञया ॥७२५ ॥ हृत्संपुटात्ममन्त्रेण रेचकेन विनिक्षिपेत् । ॐ हां हां हां प्रात्मने नमः॥ जाज्वल्यमाने निधूमे जुहुयादिष्टसिद्धये ॥७२६॥ अप्रबुद्धे सधूमे तु होता वह्नौ न सिध्यति । स्निग्धः प्रदक्षिणावर्तः सुगन्धः शस्यतेऽनलः ॥ ७२७ ॥ विपरीतः स्फुलिङ्गो च भूमिदङ न प्रशस्यते । अन्तेबासिकृतं पापं जानीयादग्निलक्षणः ॥७२८ ॥ विष्टागन्धे स भूहती ब्रह्महा गुरुतल्पगः । सुरापो गुरुहन्ता च गोप्नश्च कृतनाशनः ॥ ७२६ ॥ कृशेनौ शवगन्धे च गर्भभर्तृविनाशनः । भ्रमति स्त्रीवधे वह्निः कम्पते हेमहर्तरि ॥ ७३० ॥ वधे स्फुटति बालस्य निस्तेजा गर्भघातके । इत्येवमादिभिश्चिह्न? त्वा शिष्यस्य कल्मषम् ॥ ७३१ ॥ पापभक्षणहोमेन दहेद्वा तं नवात्मना ।। द्विजत्वापादने चैव तथा रुद्रांशभावने ॥७३२ ॥ आहारवीजसंशुद्धौ गर्भाधानाय संस्कृतौ । सीमन्तजन्मने नामकरणाय च होमयेत् ॥७३३ ॥ शतानि पञ्च मूलेन चूडादिषु दशांशतः । शिथिलीभूतबन्धस्य शक्तरुत्कर्षणं च यत् ॥ ७३४ ॥
१अत्र अग्नेः समिन्धनमेव प्रबोधो,नतुअन्यत् तेनाप्रबुद्धेऽसमिद्ध इत्यर्थः