________________
सोमशम्भुरचिता ।
॥ ७१७ ॥
विप्रादोनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः । प्रणतिं कुम्भवार्धान्योः कारयित्वानलान्तिके || ७१५ ।। स्वदक्षिणासने तद्वत्सौम्यास्यमुपवेशयेत् । शिष्यदेहविनिष्क्रान्तां सुषुम्नामपि भावयेत् ॥ ७१६ ॥ निजविग्रहलीनां च दर्भ मरेन मन्त्रितम् । दर्भा दक्षिणे तस्य निधाय करपल्लवे तन्मूलमात्मजङ्घायामग्रं वेति मतान्तरम् । शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना ॥ ७१८॥ पूरकेण समागत्य स्वकीयं हृदयाम्बरम् शिवाशिना पुनः कृत्वा नाडीसन्धानमीदृशम् ।। ७१६ ॥ हृदा तत्संनिधानार्थं जुहुयादाहुतम् । शिवहस्तस्थिरत्वार्थं शतं मूलेन होमयेत् इत्थं समयदीक्षार्थं भवेद्योग्यो भवार्चने । इति दीक्षाविधिः ॥
।। ७२० ॥
अथ समयदीक्षाविधानम्
७३
अथ संस्कार (समय) दीक्षायां विधानमभिधीयते ॥ ७२१ ॥ श्रावाहयेन्महेशस्य वह्निस्थस्य शिव हृदि । संश्लिष्टौ तौ समभ्यर्च्य संतर्प्य हृदयाना ॥ ७२२ ॥ तयोः संनिधये दद्यात् तेनैवाहुतिपञ्चकम् । कुसुमेनास्त्रजप्तेन ताडयेद्धृदये शिशुम् प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् । प्रविश्य तत्र हुङ्कारयुक्त रेचकयोगतः
॥ ७२३ ॥
॥ ७२४ ॥