________________
कर्मकाण्डक्रमावली ।
७५ चरणादिशिखां यावद्भक्त्यै मुक्त्यै विलोमतः ॥ ७०४ ॥ चक्षुषा सप्रसादेन शैवं धाम विवृण्वता । अस्त्रोदकेन संप्रोक्ष्य मन्त्राम्बुस्नानसिद्धये ॥७०५ ।। भस्मस्त्रानं त विघ्नानां शान्तये पापभीतये । सृष्टिसंहारयोगेन ताडयेदखभस्मना ॥७०६ ।। पुनरस्त्राम्बना प्रोक्ष्य सकलीकरणाय सम् । नाभेरूवं कुशाग्रेण मार्जनायास्त्रमुच्चरन् ॥७०७ ॥ हृदालभेत तन्मूलेरघमर्षाय नाभ्यधः ।। द्वविध्याय च पाशानामालभ्येत शराणुना ॥ ७०८ ॥ तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः । पुष्पादिपूजितस्याम्य नेत्रे नेत्रण वा हृदा ॥७०६॥ बद्धवा मन्त्रितवस्त्रेण सितवस्त्रदशेन च । प्रदक्षिणक्रमादेव प्रविश्य शिवदक्षिणे ॥७१० ॥ षडुत्थमासनं दत्त्वा यथावत् तं निवेशयेत् । संहारमद्रयात्मानं मूर्त्या तस्य हृदम्बुजे ॥७११ ॥ निरुध्य शोधिते काये न्यासं कृत्वा तमधयेत् । पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके शिवहस्तं प्रदातव्यं रुद्रेशपददायकम् । शिवसेवाग्रहोपायं दत्तं हस्ते शिवाणुनो ॥७१३ ॥ शिवे प्रक्षेपयेत् पुष्पमपनीयास्य चाम्बरम् । उत्पाद्य स्थानमन्त्रायं शिवदेवगणाङ्कितम् ॥७१४॥ १ 'सितेन सदशेन च' ख. ग. पाठः । २ 'तु' क. पाठः । ३ 'त्मनि' क. पाठः ।