________________
कर्मकाण्डक्रमावली। डों हं शिवाय स्वाहेति तर्पणम् । डों में शिवाय हूं फडित्यादि दीपनम् ॥
ततः शिवाम्भसा स्थाली क्षालितां वर्मगुण्ठिताम् ॥६८४॥ चन्दनादिसमालब्धां बनीयात्कण्ठमण्डले । वस्त्रास्त्रजप्तसद्दर्भसूत्राभ्यां चरुसिद्धये ॥६८५ ॥ धर्माद्यरासने दत्ते सान्द्रास्त्रकृतमण्डले । न्यस्तास्त्रमूर्तिभूतायां भावपुष्पः शिवं यजेत् ॥६८६ । वस्त्रबद्धमुखायाँ वा स्थाल्यां पुष्पैर्वहिर्भवेत् (यजेत) ॥ चुल्ल्यां पश्चिमवक्त्रायां शुद्धायां वीक्षणादिभिः ॥ ६८७॥ न्यस्तहुङ्कारबीजायां न्यस्तायां कुण्डदक्षिणे । धर्माधर्मशरीरायां जप्तायामायुधाणुना ॥६८८ ॥ स्थालीमारोपयेदस्वजप्तगव्याज्यमार्जिताम् । गव्यं पयोऽस्त्रसंशुद्धं प्रासादशतमन्त्रितम् ॥६६॥ तण्डुलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा । एका शिष्यविधानाय तेषां प्रसृतिपञ्चकम् ॥ ६६०॥ प्रसृतिं प्रसृतिं पश्चाद्वर्धयेवृद्धथनुक्रमात् ।। कुर्वश्चालनमस्त्रण पिधानं कवचाणुना ॥६६१ ॥ शिवाग्नौ मूलमन्त्रेण पूर्वास्यश्वरुकं पचेत् । सुखिन्ने तत्र तच्चुल्ल्यां स्रवमापूर्य सर्पिषा ॥६६२॥ खाहान्तैः संहितामन्त्रैर्दत्त्वा तप्ताभिधारकम् । संस्थाप्य मण्डले स्थाली सदमेंऽस्त्राणुना कृते ॥६६३ ॥
१ ‘फटकार' ख. पाठः ।