________________
सोमशम्सुरचिता। ज्ञानखड्गकरः स्थिन्वा नैर्ऋत्यामुदगाननः ॥६३४ ॥ अर्घाम्बुपञ्चगव्याभ्यां संप्रोड्य मखमण्डलम् । चतुष्पथान्तसंस्कारैः संस्कुर्याद्वीक्षणादिभिः ॥६३५॥ विक्षिप्य विकिरास्तत्र कुशकूर्योपसंहरेत् । तानीशदिशि बार्धान्यामामनायोपकल्पयेत् ॥६३६ ॥ नैर्ऋते वास्तुगीर्वाणान्द्वारे लक्ष्मी च पूजयेत् ।। पश्चिमे संमुखी रत्नैः परयन्ती मखालयम् ॥ ६३७ ।। ध्यात्वावाह्य हृदाभ्यर्च्य स्मरन्मएडलरूपिणीम् । अथ रत्नौषधीनोयपणे चन्दनचर्चिते ॥ ६३८ । चूतपल्लववक्त्रे च प्रणवेन चलासने । ऐशान्यां सर्वदा न्यस्ते कलशे पश्चिमानने ॥ ६३६ ॥ भूषिते वस्त्रहेमाद्यैः साङ्ग संपूज्य शङ्करम् । कुम्भदक्षिणपार्श्वस्थां पश्विमास्यां सुलक्षणाम् ॥ ६४०॥ पूजयेदथ सिंहस्थां वार्धानी खड्गरूपिणीम् । दिनु शक्रादिदिक्पालान्विष्णवन्तान्प्रणवासनान् ॥ ६४१ ॥ वाहनायुधसंयुक्ताहृदाभ्यर्च्य स्वनामभिः । प्रथमं तां समाधाय कुम्भस्याग्राभिगामिनीम् ॥ ६४२ ॥ अविच्छिन्नपयोधारां भ्रामयेत्तां प्रदक्षिणम् । शिवाज्ञां लोकपालानां श्रावयेन्मूलमच्चरन् ॥६४३ ॥ संरक्ष्य तु यथाभागं कुम्भं धृत्वा च तां न्यसेत् । ततः स्थिरासने कुम्भे साङ्गं संपूज्य शङ्करम् ॥ ६४४ ॥ विन्यस्य शोध्यमध्वानं वार्धान्यां चास्त्रमुच्चरेत् ।