________________
कर्मकागडक्रमावली। तिलतण्डुलसिद्धार्थकुशर्वाङकुरोदरम् ॥६२३ ॥ सयवक्षीरनीरं च विशेषामिमं ततः । तदम्बुना द्रव्यशुद्धिं तिलकं स्वाणुनात्मनः ॥६२४ ॥ पूजनं मन्त्रसंशुद्धिं पञ्चगव्यं च पूर्ववत् । लाजाचन्दनसिद्धार्थान् भस्मदूर्वाक्षतान्कुशान् ॥ ६२५ ॥ विकिरान् शुद्धलाजान्तान्सप्तधास्त्राभिमन्त्रितान् । अस्वाम्बुप्रोक्षितानेतान्कवचेनावगुण्ठितान् । ॥६२६ ॥ नानाप्रहरणाकारान्विनौघविनिवारकान् । दर्भाणां तालमानेन कृत्वा पत्रिंशता दलैः ॥ ६२७ ॥ सप्तजप्तशिवारेण वेणीबोधासिमुत्तमम् । शिवमात्मनि विन्यस्य स्मृत्वा ध्यानमभीप्सितम् ॥६२८॥ निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत् । मूलाभिमन्त्रितं श्वेतमुष्णीपं शिरसि न्यसेत् ॥६२६ ॥ अलङ्कर्यान्निजं देहं गन्धैः पुष्पैविभूषणैः । गन्धमण्डलकं स्वीये विदध्याइक्षिणे करे ॥६३० ॥ विधिनात्रायेदीशमित्थं स्याच्छिवहस्तकम् । तं न्यस्य शिवमन्त्रेण भास्वरं निजमस्तके ॥६३१ ॥ शिवादभिन्नमात्मानं कर्तारं भावयेद्यदा । मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः ॥६३२ ॥ होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः । स्वात्मन्यनुग्रहीतेति पञ्चाकारोऽयमीश्वरः ॥६३३ ॥ सोऽहमेवेति कुर्वीत भावं स्थिरतरं गुरुः ।