________________
सोमशम्भुरचिता। आचार्यमूर्तिमास्थाय मन्दतीवादिभेदतः ॥६१२ ॥ शक्त्या यां कुरुते शंभुः सा साधिकरणोच्यते । इयं चतुर्विधा दीक्षा सबीजा वीजवर्जिता ॥६१३॥ साधिकारा निरधिकारा यथा तदभिधीयते । समयाचारसंयुक्ता सबीजा जायते नृणाम् ॥६१४ ॥ निबींजा त्वसमर्थस्य समयाचारवर्जिता । नित्ये नैमित्तिले काम्ये यदि स्यादधिकारिता ॥ ६१५ ॥ साधिकारा भवेदीक्षा साधकाचार्ययोरतः । निर्बीजदीक्षितानां तु तथा समयिपुत्रयोः ॥६१६ ॥ जित्यमात्राधिकारित्वादीक्षा निरधिकारिका । द्विविधेयं द्विरूपापि प्रत्येकमुपजायते ॥६१७॥ एका क्रियावती तत्र कुण्डमण्डलपूर्विका । मनोव्यापाररूपेण या सा ज्ञानवतां मता ॥६१८ ॥ इत्थं लब्धाधिकारेण दीक्षाचार्येण साध्यते । स च सद्देशसंभूतः सुमूर्तिः श्रुतशीलवान् ॥ ६१६ ॥ ज्ञानाचारो गुणोपेतः क्षमी शुद्धाशयो वरः । देशकालगुणाचारो गुरुभक्तिसमन्वितः ॥६२० ॥ शिवानुध्यानवान् शस्तो विरक्तस्थ प्रशस्यते । अथ दीक्षां गुरुः कुर्यात्कृतनित्यक्रियाक्रमः ॥६२१ ॥ प्रणवार्षकराम्भोजः कृतद्वाराधिपार्चनः । विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः ।। ६२२ ॥ कुर्वीत भूतसंशुद्धिमन्तर्यागं यथोदितम् ।