SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डकमावली : संघातपित्र तुलस्य मामि शिव पावकः ॥६०३ ॥ शिवकूर्चा दहत्याशु पापानि सुमहान्त्यपि । यथाशास्त्रोपदिष्टेन प्रायश्चित्तं वदेद्वधः ॥६०४ ॥ न्यूनाधिकमदानेन देशिको नरकं व्रजेत् ।। कमाण्डक्रमावल्यां श्रीयता लोमशंभना ॥६०५॥ महाप्रभावः स्वल्पोऽपि प्रायश्चित्तविधिः स्मृतः । इति प्रायश्चित्तविधिः ॥ अथ दीक्षाविधिः अथातो भोगमोक्षार्थ दीक्षारूपनिरूपणम् ॥६०६ ।। यभागगं यथादोषं संक्षेपादभिधीयते ।। मलमायादिपाशानां विश्लेपः क्रियते यया ॥६०७ ॥ ज्ञानं च जन्यते शिष्ये सा दीक्षेत्यभिधीयते । विज्ञानाकलनामको द्वितीयः प्रलयाकलः ॥६०८ ॥ तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधः स्मृतः । तत्राद्यो मलमात्रेण युक्तोऽन्यो मलकर्मभिः ॥६०६ ॥ कलादिभूमिपर्यन्ततत्त्वेस्तु सकलो युतः । निराधाराऽथ साधारा दीक्षाथ द्विविधा स्मता ॥६१० ॥ निराधारा द्वयोस्तेषां साधारा सकलस्य तु । आचार्यनिरपेक्षेण क्रियते शंभुनैव या ॥६११ ॥ तीव्रशक्तिनिपातेन निराधारेति सा स्मता । १ ‘कृतः 'ख. पाठः ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy