________________
सोमशम्भुरचिता। भूशायी ब्रह्मचारी च वितैलः सत्यवाग्भवेत् । नक्तं हविष्यभुग्यावत्प्रायश्चित्तं समाप्यते ॥ ५६२ ॥ मध्यपूर्वाधुदीच्यन्तं विन्यसेत् कोष्ठपञ्चके । शिवं सदाशिवं विद्यां कालं च पुरुष क्रमात ॥५६३॥ सुप्रतिष्ठं सुशांतं च तेजोवदमृतात्मकम् । रत्नोदकं च पश्चात्र तद्वत्पात्राणि विन्यसेत् ॥५६४॥ गोमयं गोजलं सर्पिर्दधि क्षीरं च पञ्चमम् । प्रतीच्यामुत्तरे याम्ये पूर्वे मध्ये क्षिपेत्क्रमात् ॥ ५६५ ॥ सद्योजातेन वामेन रूपिणा पुरुषेण च । ईशेनेति यथासंख्यं गोमयमभिमन्वयेत् ॥५६६ ॥ पूर्वं पूर्व क्षिपेदने मूलमन्त्रमुदीरयन् । कुशोदकं तु गायत्र्या तेन संहितयाथवा ॥ ५६७ ॥ पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् । गोमयस्यार्धमङ्गष्ठं गोमूत्रं पलसंमितम् ॥५६८ ॥ पलद्वयं घृतस्योक्तं मानं दनः पलत्रयम् । पलानि पञ्च दुग्धस्य कुशाम्बु पलमात्रकम् ॥ ५९६ ॥ कृष्णाया गोमयं मूत्रं नीलायाः कापिलं घृतम् । सुरभेदधि शुक्लायास्ताम्रायाः क्षीरमाहरेत् ॥६०० ॥ अभावे सर्ववर्णानां कपिलैका प्रशस्यते । सौवर्णरौप्यपालाशं पात्रं ताम्रस्य वा शुभम् ॥६०१॥ पञ्चगव्यविधानेन शिवकूर्चमिदं स्मृतम् । मृलस्याष्टशतालब्धं पिवेदेकत्र योजितम् ॥६०२॥