________________
६
सोमशन्सुरचिता। एककालं द्विकालं या त्रिकालं वार्धरात्रकम् । उपनामममोपेतं कर्मलोपे कृते सति ॥ ५७१॥ त्रिकालं पूजनं यंपामेककालमथापिवा । प्रायश्चित्तं ममं तेषां न न्यूनं नाधिकं भवेत् ॥ ५७२ ॥ द्वितीयं दिनमाग्भ्य बहुरूपमहलकम् । त्रिशलोत्तवृद्ध या तु वर्षयत्प्रतिवासनम् ॥ ५७३ ॥ विलोमे पक्षपूजायां जपेद्योगयुतद्वयम् ।। ययुतोत्तम्वृद्धया वा मासे मासे समावधि ॥५७४ ।। स्वष्टे लिङगे संप्रदुष्टे नष्टे दग्धे हृतेऽथवा । नीत या मूषकः काकालयवानोरपि ॥५७५ ॥ जप्त्या लक्षमघोरस्य विधिना लिङ्गकान्तरम् । प्रतिष्ठाप्य भवेच्छुद्धिः पिण्डिकायां तथैवच ॥ ५७६ ॥ स्वहस्ताल्लोठिते लिङ्गे द्विगुणं परिवर्तने । शुद्धिः श्वभ्रच्युते लक्षात् त्रिचतुटुंठितेऽयुतात् ॥ ५७७ ।। गड्डुकाधभिघाते तु शुद्धिः स्यादयुतद्वयात् । अधोरस्यायुतेनैव लघुपाते च शुद्धयति ॥ ५७८ ॥ साधारे पतिते लिङ्गे ताले तारायुतं जपेत् । द्विगुणं तु निराधारे कल्प्यं न्यूनाधिकं ततः ॥ ५७६ ।। अकामतो यदा लिङ्ग च्युतं पुरुषमानतः । विशुद्धं सर्वभावेन प्रायश्चित्तं तदा नहि ॥७८० ॥ अस्य तोयशलाकाया भेदे पापं महत्तमम् ।