________________
कर्नकाण्डकमावली |
।। ५६० ।।
॥ ५६४ ॥
गृहस्थो ब्रह्मचारी वा प्रायश्विती द्विधा भवेत् । सकामाकामभेदेन तावपि द्विविधौ स्मृतौ अकामात् तु सकामस्य द्विगुणां शुद्धिमादिशेत् । स्नातकाद् द्विगुणं ज्ञेयं प्रायश्चित्तं तु नैष्ठिके ।। ५६१ 11 अशीतिर्यस्य वर्षाणि वालो वाप्यूनबोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याध्यादिपीडिताः || ५६२ ।। तत्रापिच परिक्लेशं ज्ञात्वा वा प्रकल्पयेत् । सुदुष्करं स्वयं कर्तुमक्षमे द्विगुणोऽन्यतः ॥ ५६३ ॥ देशं कालं वयः शक्तिं मति भक्ति क्रियाक्रमम् । सुविचार्य प्रदातव्यं नोपवासो रुजान्विते प्रायश्चित्तासमर्थस्य पितृभ्रात्रादिबान्धवः । तद्विभज्य विधातव्यं द्विगुणं त्वितरैर्जनैः यथाश्रुतं यथादृष्टं निबद्धं गुरुभिर्यथा । स्वसिद्धान्ताविरोधेन तद्विलङ्घन लङ्घनम् ॥ रात्रौ पूजां च दानं च बुभुक्षुः परिवर्जयेत् । विना चन्द्रोपरागेण विना सिद्धिसमीहनम् ॥ ५६७ ॥ पूजयित्वा प्रमादेन गायत्र्यष्टशतं जपेत् । मुमुक्षोः सर्वदा सर्वा शिवपूजा न वार्यते ॥ ५६८ ॥ सकृत्सन्ध्याविलोपे तु श्रजातस्य शतं जपेत् । त्रिकाललोपात् त्रिगुणं सोपवासं तु कामतः ॥ ५६६ ॥ एककालार्चने लुप्ते सहस्रं दक्षिणं जपेत् ।
॥ ५६५ ।।
५६६ ।।
अकामतः कामतस्तु पूर्वोक्तलक्षणं स्मरेत् ॥ ५७० ।।
६१