________________
सोमशम्भुरचिता। अथवा भक्षणे कामात्प्रजपेब्रह्मपञ्चकम् ॥५४६ ।। यजेत्सहस्रमध्यर्थं कामतो दीक्षया शुचिः ।। निर्माल्यं लवयित्वा तु दक्षिणस्यायुतं जपेत् ॥ ५५० ॥ लङ्घनेन समः स्पर्शः समौ भक्षणविक्रयो । देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ॥ ५५१ ॥ नैवेयं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् । चण्डद्रव्यं च निर्माल्यं निर्माल्यं पविधं स्मृतम् ॥ ५५२ ।। ग्रामादीशस्य देवस्वं देवद्रव्यं पटादिकम् । चण्डद्रव्यं तु यदत्तं निर्माल्यं प्रेरितं बहिः ।।५५३ ॥ पिण्डिकास्थं च निर्माल्पमपि देवे विसर्जिते । क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ।। ५५४ ॥ लड्चनासिद्धिहानिश्च गन्धोपादानतो वृकः । चण्डालस्त्वयथादाने विक्रये शवरो भवेत् ॥ ५५५ ।। स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः । यनिर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा ॥५५६ ॥ पादोनं तत्र पूर्वोक्तं स्पर्शलचनभक्षणैः । अनुषङ्गप्रविष्टं तु चन्दनादि प्रमाणतः ॥५५७ ॥ तन्निर्माल्यचतुर्थांशं सिद्धलिङ्गादिधामसु । गुरुपुस्तकनागानों वोगिगणस्य च ॥ ५५८ ।। पार्वतीयक्षमातृणां न निर्माल्यं शिवे यथा । ( गुरुदेवाग्निकार्येषु ) नित्यहानिर्न दोषकृत् ॥५५६ ॥