________________
कर्मकाण्डमाऋवली। शतं तु सूत्रके जीणे हस्तभ्रंशात्तथा शतम् । अक्षमालां कराद्धृष्टां क्षालयगन्धवारिणा ॥५३६ ॥ गायत्र्याः शतजापेन सर्वत्र विधिः स्मृतः । घण्टायामपराधे तु लिङ्गोक्ताष्टमभागतः ॥५४० ॥ प्रायश्चित्तं विधातव्यं दत्तमागमवेदिना । पूजोपकरणं किंचित् स्पृष्ट्वा पीठादिकं पदा ॥ ५४१ ।। शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ।। बालावलानां वृद्धानामातुराणां च पादतः ॥५४२॥ प्रायश्चित्तं प्रदातव्यं यदि भक्तः सदा शिवे । शिवकाहितचित्तानामाचार्याणां च सर्वदा ॥५४३ ॥ लोकसंव्यवहारार्थ प्रायश्चित्तं तु कीर्तितम् । केशामिपास्थिकीटादिदुष्टनैवेद्यदर्शने ॥ ५४४ ॥ अधोरस्यायुतं कामादकामात्तु शतं जपेत् । नित्यनैवेद्यमानस्य हासेऽधोरशतद्वयम् ॥५४५॥ प्राण्यङ्गधूपदाने तु पञ्चमस्य शतं जपेत् । पादेनाकामतः स्पृष्ट्वा विनिन्द्य च शिवागमम् ॥५४६ ॥ द्वययुतोऽघोग्मन्त्रस्य कामतः पड़गुणं जपेत् । महेशगुरुचण्डाज्ञाभंगे लक्षमुदीरितम् ॥५४७ ।। एतदर्थाथितद्रव्यभक्षणात्पादवर्जितम् ।। निर्माल्यभक्षणेऽघोरलक्षपादेन शुध्यति ॥५४८॥
भक्षणेन समं दानं तदर्षिमुपेक्षणे । १ (द्रव्ये) क. पाठः ॥