________________
सोमशम्भुरचिता ।
२
लिङ्गं च स्थिरमुन्मल्य स्थापयेच्च तदेवहि । व्यङ्गितं दग्धविच्छायं सेवितं श्वपचादिभिः॥ ५२८ ।। पतितं घोरगादी हृतं राजादिभिर्यदा । परित्यजेत्तदा लिङ्ग जवाघोरदशायुतम् ॥ ५२६ ॥ लिङ्गान्तरं प्रतिष्ठाप्य विशुद्धिमधिगच्छति ।। निर्वाण सशिवे वह्नौ त्रिरात्रं समुपोपितः ॥ ५३० ॥ सहमं बहुरूपस्य जपेदोषापनुत्तये । मन्ध्यात्रयपरिभ्रष्टः शिवकादशिकात्रयम् ॥५३१॥ जप्त्वा विशुद्धिमामोति मानहीनः शतं जपेत् । पर्वग्यपूजिते देवे गुरी वहनौ च शक्तितः ॥ ५३२ ॥ अदत्त्वा च वलिं तंत्र शिवस्याष्टशतं जपेत् । व्रतस्य च क्रियायाश्च नियमस्य च लोपने ॥५३३॥ गायत्र्यष्टशताभ्यासाद्विशुद्धिमधिगच्छति । विलोपे नित्यपूजायाश्चतुर्दश्यादिपर्वसु ॥ ५३४ ॥ निर्दिष्टं देवदेवेन प्रायश्चित्तं चतुर्गुणम् ।
आषाढयादित्रये देवादविधाय पवित्रकम् ॥५३५ ॥ लक्षद्वयमघोरस जप्त्वा चान्द्रायणं चरेत् । अथवा सन्धिते पात्रे भग्ने वापि विवर्तिते ॥५३६॥ शतद्वयात्सहस्त्राच्च तदर्धाच शुचिर्भवेत् । . . अक्षसूत्रापराधे तु शुद्धिलिङ्गोक्तपादतः ॥५३७ ॥ लिख्यतेऽथ विशेषोऽपि यो दृष्टः पारमेश्वरे । पवित्रके नवे च्छिन्ने सहस्रं परिवर्तयेत् ॥५३८ ॥ १ 'आषढादि' क. पाठः ।